Sukta 10.9
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशम्भुवम् ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् ॥
apsú me sómo abravīd antár víśvāni bheṣajā́ | agníṃ ca viśváśambhuvam ||
Within the waters Soma spoke to me: “Inwardly are all healings; and Agni too, the universal benefactor.”
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा । अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥अप्सु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा । अग्निम् । च । विश्वशम्भुवम् ॥ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā | agnim | ca | viśva-śambhuvam