Sukta 10.9
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥
śáṃ no devī́r abhiṣṭáya ā́po bhavantu pītáye | śáṃ yór abhí srávantu naḥ ||
May the divine Waters become for us a blessing and a help for our fulfilment; may they flow to us with peace and with the delight that brings well-being.
शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ । शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये । शम् । योः । अभि । स्रवन्तु । नः ॥śam | naḥ | devīḥ | abhiṣṭaye | āpaḥ | bhavantu | pītaye | śam | yoḥ | abhi | sravantu | naḥ