Sukta 10.9
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
tásmā áraṃ gamāma vo yásya kṣáyāya jínvatha | ā́po janáyathā ca naḥ ||
To him we would fittingly go—he for whose abiding home you quicken; and, O Waters, you also bring birth in us.
तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ । आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ । आपः । जनयथ । च । नः ॥tasmai | aram | gamāma | vaḥ | yasya | kṣayāya | jinvatha | āpaḥ | janayatha | ca | naḥ