Sukta 10.84
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥
आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् । क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥
ābhū́tyā sahajā́ vajra sāyaka sáho bibharṣy abhibhūta úttaram | krátvā no manyo sahá médy edhi mahādhanásya puruhūta saṃsṛ́ji ||
By your victorious becoming, O thunderbolt, O arrow, you bear a might that conquers and rises ever higher. By your purposeful will, O Manyu, grow together with us into a richer fullness; O much-invoked, join us to the great treasure of being.
आऽभू॑त्या । स॒ह॒ऽजाः । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । बि॒भ॒र्षि॒ । अ॒भि॒ऽभू॒ते॒ । उत्ऽत॑रम् । क्रत्वा॑ । नः॒ । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒ऽध॒नस्य॑ । पु॒रु॒ऽहू॒त॒ । स॒म्ऽसृजि॑ ॥आभूत्या । सहजाः । वज्र । सायक । सहः । बिभर्षि । अभिभूते । उत्तरम् । क्रत्वा । नः । मन्यो इति । सह । मेदी । एधि । महाधनस्य । पुरुहूत । सम्सृजि ॥ābhūtyā | saha-jāḥ | vajra | sāyaka | sahaḥ | bibharṣi | abhi-bhūte | ut-taram | kratvā | naḥ | manyo iti | saha | medī | edhi | mahādhanasya | puru-hūta | sam-sṛji