Sukta 10.84
विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह । प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥
वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह । प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
vijeṣakṛ́d índra ivānavabravó ’smā́kaṃ manyo adhipā́ bhavéha | priyáṃ te nā́ma sahure gṛṇīmasi vidmá tám utsáṃ yáta ābabhū́tha ||
A maker of victory, like Indra, unfailing in speech—be here the overlord for us, O Manyu. We proclaim your dear name, O irresistible one; we know the spring from which you have arisen.
वि॒जे॒ष॒ऽकृत् । इन्द्रः॑ऽइव । अ॒न॒व॒ऽब्र॒वः । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपाः । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽब॒भूथ॑ ॥विजेषकृत् । इन्द्रःइव । अनवब्रवः । अस्माकम् । मन्यो इति । अधिपाः । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यतः । आबभूथ ॥vijeṣa-kṛt | indraḥ-iva | anava-bravaḥ | asmākam | manyo iti | adhi-pāḥ | bhava | iha | priyam | te | nāma | sahure | gṛṇīmasi | vidma | tam | utsam | yataḥ | ābabhūtha