Sukta 10.84
संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒: परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥
saṁsṛ́ṣṭaṁ dhánam ubháyaṁ samā́kṛtam asmábhyaṁ dattāṁ váruṇaś ca mányuḥ | bhiyáṁ dádhānā hṛ́dayeṣu śátravāḥ parā́jitāso ápa ní layantām ||
May Varuṇa and Manyu grant to us the integrated wealth—both powers joined and shaped into one completeness. Let the adversaries, bearing fear within their hearts, withdraw and hide away, defeated.
सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः । भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥सम्सृष्टम् । धनम् । उभयम् । सम्आकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः । भियम् । दधानाः । हृदयेषु । शत्रवः । पराजितासः । अप । नि । लयन्ताम् ॥sam-sṛṣṭam | dhanam | ubhayam | sam-ākṛtam | asmabhyam | dattām | varuṇaḥ | ca | manyuḥ | bhiyam | dadhānāḥ | hṛdayeṣu | śatravaḥ | parājitāsaḥ | apa | ni | layantām