Sukta 10.84
एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि । अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥
एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि । अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्महे ॥
ékō bahūnā́m asi manyav īḷitó víśaṃviśaṃ yudhā́ye sáṃ śiśādhi | ákṛttaruk tváyā yujā́ vayáṃ dyumántaṃ ghóṣaṃ vijáyāya kṛṇmahe ||
You are the One among the many, O Manyu, worthy of our call; train every clan of our energies for the battle. Unbroken in utterance, yoked with you, we raise a luminous cry for victory.
एकः॑ । ब॒हू॒नाम् । अ॒सि॒ । म॒न्यो॒ इति॑ । ई॒ळि॒तः । विश॑म्ऽविशम् । यु॒धये॑ । सम् । शि॒शा॒धि॒ । अकृ॑त्तऽरुक् । त्वया॑ । यु॒जा । व॒यम् । द्यु॒ऽमन्त॑म् । घोष॑म् । वि॒ऽज॒याय॑ । कृ॒ण्म॒हे॒ ॥एकः । बहूनाम् । असि । मन्यो इति । ईळितः । विशम्विशम् । युधये । सम् । शिशाधि । अकृत्तरुक् । त्वया । युजा । वयम् । द्युमन्तम् । घोषम् । विजयाय । कृण्महे ॥ekaḥ | bahūnām | asi | manyo iti | īḷitaḥ | viśam-viśam | yudhaye | sam | śiśādhi | akṛtta-ruk | tvayā | yujā | vayam | dyu-mantam | ghoṣam | vi-jayāya | kṛṇmahe