Sukta 10.84
सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् । उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् । उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वम् ॥
sáhasva manyo abhimā́tim asmē rújan mṛṇán pramṛṇán préhi śatrū́n | ugráṃ te pā́jo nanv ā́ rurudhre vaśī́ váśaṃ nayase ekajá tvám ||
Prevail, O Manyu, over the hostile assault against us—breaking, crushing, utterly crushing, go forth against the adversaries. Your fierce energy is held back no longer; masterful, you lead all into your mastery, you who are born of the One.
सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् । अ॒स्मे इति॑ । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् । उ॒ग्रम् । ते॒ । पाजः॑ । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒य॒से॒ । ए॒क॒ऽज॒ । त्वम् ॥सहस्व । मन्यो इति । अभिमातिम् । अस्मे इति । रुजन् । मृणन् । प्रमृणन् । प्र । इहि । शत्रून् । उग्रम् । ते । पाजः । ननु । आ । रुरुध्रे । वशी । वशम् । नयसे । एकज । त्वम् ॥sahasva | manyo iti | abhi-mātim | asme iti | rujan | mṛṇan | pra-mṛṇan | pra | ihi | śatrūn | ugram | te | pājaḥ | nanu | ā | rurudhre | vaśī | vaśam | nayase | eka-ja | tvam