Sukta 10.84
अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥
अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्न॑: सहुरे हू॒त ए॑धि । ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥
agnír iva manyo tviṣitáḥ sahasva senānī́r naḥ sahure hūtá édhi | hatvā́ya śatrū́n ví bhajasva véda ójo mimā́no ví mṛ́dho nudasva ||
Like Agni, O Manyu, blaze and prevail; be our battle-leader, O irresistible one, when invoked. For the slaying of the adversaries, separate them and discern; measuring out force, drive away the assaults.
अ॒ग्निःऽइ॑व । म॒न्यो॒ इति॑ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒ऽनीः । नः॒ । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ । ह॒त्वाय॑ । शत्रू॑न् । वि । भ॒ज॒स्व॒ । वेदः॑ । ओजः॑ । मिमा॑नः । वि । मृधः॑ । नु॒द॒स्व॒ ॥अग्निःइव । मन्यो इति । त्विषितः । सहस्व । सेनानीः । नः । सहुरे । हूतः । एधि । हत्वाय । शत्रून् । वि । भजस्व । वेदः । ओजः । मिमानः । वि । मृधः । नुदस्व ॥agniḥ-iva | manyo iti | tviṣitaḥ | sahasva | senānīḥ | naḥ | sahure | hūtaḥ | edhi | hatvāya | śatrūn | vi | bhajasva | vedaḥ | ojaḥ | mimānaḥ | vi | mṛdhaḥ | nudasva