Sukta 10.84
त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
tváyā manyo sarátham ārujántaḥ hárṣamāṇāso dhṛṣitā́ marútvaḥ | tigméṣava ā́yudhā saṃśíśānā abhí prá yántu náro agnírūpāḥ ||
With you, O Manyu, yoked to one chariot, rejoicing and daring, the Marut-like powers sharpen their keen weapons; may these fiery-formed heroes advance against the obstruction.
त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑मानासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ । ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥त्वया । मन्यो इति । सरथम् । आरुजन्तः । हर्षमानासः । धृषिताः । मरुत्वः । तिग्मइषवः । आयुधा । सम्शिशानाः । अभि । प्र । यन्तु । नरः । अग्निरूपाः ॥tvayā | manyo iti | sa-ratham | ārujantaḥ | harṣamānāsaḥ | dhṛṣitāḥ | marutvaḥ | tigma-iṣavaḥ | āyudhā | sam-śiśānāḥ | abhi | pra | yantu | naraḥ | agni-rūpāḥ