Sukta 10.83
अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥
अ॒भागः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥
abhāgáḥ sánn ápa párēto asmi táva krátvā taviṣásya pracetaḥ | táṃ tvā manyo ákratur jihīḷāháṃ svā́ tanū́r baladéyāya méhi ||
Portionless, I have fallen away; it is by your purposeful power, O knower, O vehement one. Therefore, O Manyu, despise the witless in me; come to me—my own being—to make it a giver of strength.
अ॒भा॒गः । सन् । अप॑ । परा॑ऽइतः । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒ऽदेया॑य । मा॒ । आ । इ॒हि॒ ॥अभागः । सन् । अप । पराइतः । अस्मि । तव । क्रत्वा । तविषस्य । प्रचेत इति प्रचेतः । तम् । त्वा । मन्यो इति । अक्रतुः । जिहीळ । अहम् । स्वा । तनूः । बलदेयाय । मा । आ । इहि ॥abhāgaḥ | san | apa | parāitaḥ | asmi | tava | kratvā | taviṣasya | pracetait ipra-cetaḥ | tam | tvā | manyo iti | akratuḥ | jihīḷa | aham | svā | tanūḥ | bala-deyāya | mā | ā | ihi