Sukta 10.83
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः । विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥
त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः । वि॒श्वच॑र्षणि॒: सहु॑रि॒: सहा॑वान॒स्मास्वोज॒: पृत॑नासु धेहि ॥
tvaṃ hí manyo abhíbhūty-ojāḥ svayambhū́r bhā́mo abhimātiṣāháḥ | viśvácarṣaṇiḥ sáhuriḥ sáhāvān asmā́sv ójaḥ pṛ́tanāsu dhehi ||
For you, O Manyu (Divine Wrath), are power that overcomes; self-born are you, a blazing splendour that conquers hostile assailants. O universal in your action, irresistible and mighty—place in us your force in the inner battles.
त्वम् । हि । म॒न्यो॒ इति॑ । अ॒भिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः । भामः॑ । अ॒भि॒मा॒ति॒ऽस॒हः । वि॒श्वऽच॑र्षणिः । सहु॑रिः । सहा॑वान् । अ॒स्मासु॑ । ओजः॑ । पृत॑नासु । धे॒हि॒ ॥त्वम् । हि । मन्यो इति । अभिभूतिओजाः । स्वयम्भूः । भामः । अभिमातिसहः । विश्वचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि ॥tvam | hi | manyo | iti | abhibhūti-ojāḥ | svayam-bhūḥ | bhāmaḥ | abhimāti-sahaḥ | viśva-carṣaṇiḥ | sahuriḥ | sahāvān | asmāsu | ojaḥ | pṛtanāsu | dhehi