Sukta 10.83
अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥
अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं न॑: ॥
abhī́hi manyo tavásas tavī́yān tápasā yujā́ ví jahi śátrūn | amitrāhā́ vṛtrahā́ dasyuhā́ ca víśvā vásūny ā́ bharā tváṃ naḥ ||
Come upon us, O Manyu, mightier than the mighty; yoked with tapas, strike apart the adversaries. Slayer of the foe, slayer of the coverer, slayer of the dark resistance—bring to us all the riches of being.
अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वसः॑ । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् । अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । नः॒ ॥अभि । इहि । मन्यो इति । तवसः । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् । अमित्रहा । वृत्रहा । दस्युहा । च । विश्वा । वसूनि । आ । भर । त्वम् । नः ॥abhi | ihi | manyo iti | tavasaḥ | tavīyān | tapasā | yujā | vi | jahi | śatrūn | amitra-hā | vṛtra-hā | dasyu-hā | ca | viśvā | vasūni | ā | bhara | tvam | naḥ