Sukta 10.83
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥
म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषा॑: ॥
mányur índro mányur evā́sa devó mányur hótā váruṇo jātávedāḥ | mányuṃ víśa īḷate mā́nuṣīr yā́ḥ pā́hi no manyo tápasā sajóṣāḥ ||
Manyu is Indra; Manyu indeed is the god. Manyu is the Hotar, Varuṇa, the knower of births. The human peoples adore Manyu—guard us, O Manyu, in harmonious union with your tapas, your ardour of transformation.
म॒न्युः । इन्द्रः॑ । म॒न्युः । ए॒व । आ॒स॒ । दे॒वः । म॒न्युः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः । म॒न्युम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । पा॒हि । नः॒ । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषाः॑ ॥मन्युः । इन्द्रः । मन्युः । एव । आस । देवः । मन्युः । होता । वरुणः । जातवेदाः । मन्युम् । विशः । ईळते । मानुषीः । याः । पाहि । नः । मन्यो इति । तपसा । सजोषाः ॥manyuḥ | indraḥ | manyuḥ | eva | āsa | devaḥ | manyuḥ | hotā | varuṇaḥ | jāta-vedāḥ | manyum | viśaḥ | īḷate | mānuṣīḥ | yāḥ | pāhi | naḥ | manyo iti | tapasā | sa-joṣāḥ