Sukta 10.83
यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
yás te mányo’vídhad vajra sāyaka sáha ójaḥ púṣyati víśvam ānuṣák | sāhyā́ma dā́sām ā́ryaṃ tváyā yujā́ sahaskṛténa sáhasā sáhasvatā ||
O Manyu, whoever has armed your thunderbolt and your arrow, your force and might foster all in their course. With you as yoked companion—strength fashioned by strength—may we overpower both the dark obstructer and the divided human within, by your puissant power.
यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । सा॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् । साह्याम । दासम् । आर्यम् । त्वया । युजा । सहःकृतेन । सहसा । सहस्वता ॥yaḥ | te | manyo iti | avidhat | vajra | sāyaka | sahaḥ | ojaḥ | puṣyati | viśvam | ānuṣak | sāhyāma | dāsam | āryam | tvayā | yujā | sahaḥ-kṛtena | sahasā | sahasvatā