Sukta 10.81
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥
viśva-karman havíṣā vāvṛdhānáḥ svayáṃ yajasva pṛthivī́m utá dyā́m | múhyantv anyé abhíto jánāsa ihā́smā́kaṃ maghávā sūrír astu ||
O Viśvakarman, growing by the offering, do thou thyself sacrifice Heaven and Earth. Let other men around wander in confusion; here let our giver of plenitude, our illumined leader (sūri), be established.
विश्व॑ऽकर्मन् । ह॒विषा॑ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । मुह्य॑न्तु । अ॒न्ये । अ॒भितः॑ । जना॑सः । इ॒ह । अ॒स्माक॑म् । म॒घऽवा॑ । सू॒रिः । अ॒स्तु॒ ॥विश्वकर्मन् । हविषा । ववृधानः । स्वयम् । यजस्व । पृथिवीम् । उत । द्याम् । मुह्यन्तु । अन्ये । अभितः । जनासः । इह । अस्माकम् । मघवा । सूरिः । अस्तु ॥viśva-karman | haviṣā | vavṛdhānaḥ | svayam | yajasva | pṛthivīm | uta | dyām | muhyantu | anye | abhitaḥ | janāsaḥ | iha | asmākam | magha-vā | sūriḥ | astu