Sukta 10.81
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥
yā́ te dhā́māni paramā́ṇi yā́vamā yā́ madhyamā́ viśva-karman nutémā́ | śíkṣā sákhibhyo havíṣi svadhāvaḥ svayáṃ yajasva tanvàṃ vṛdhānáḥ ||
O Viśvakarman, whatever thy highest seats, thy lowest, and thy middle—teach these to the comrades in the offering, O self-powered one. Do thou thyself sacrifice, increasing thy body of manifestation, so that the work may be fulfilled in us.
या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा । शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥या । ते । धामानि । परमाणि । या । अवमा । या । मध्यमा । विश्वकर्मन् । उत । इमा । शिक्ष । सखिभ्यः । हविषि । स्वधावः । स्वयम् । यजस्व । तन्वम् । वृधानः ॥yā | te | dhāmāni | paramāṇi | yā | avamā | yā | madhyamā | viśva-karman | uta | imā | śikṣa | sakhi-bhyaḥ | haviṣi | svadhāvaḥ | svayam | yajasva | tanvam | vṛdhānaḥ