Sukta 10.81
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥
kíṃ svíd vánaṃ ká u sá vṛ́kṣa āsá yáto dyā́vā-pṛthivī́ níṣ tatakṣúḥ | manī́ṣiṇo mánasā pṛcchate dú tád yad adhyátiṣṭhad bhúvanāni dhāráyan ||
What was the wood, and what the tree from which they shaped out Heaven and Earth? The thinkers question in the mind that Mystery—what it was that stood over all the worlds, upholding them.
किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊँ॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥किम् । स्वित् । वनम् । कः । ऊँ इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःततक्षुः । मनीषिणः । मनसा । पृच्छत । इत् । ऊँ इति । तत् । यत् । अधिअतिष्ठत् । भुवनानि । धारयन् ॥kim | svit | vanam | kaḥ | oṃ iti | saḥ | vṛkṣaḥ | āsa | yataḥ | dyāvāpṛthivī iti | niḥ-tatakṣuḥ | manīṣiṇaḥ | manasā | pṛcchata | it | oṃ iti | tat | yat | adhi-atiṣṭhat | bhuvanāni | dhārayan