Sukta 10.81
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥
viśvátas cakṣur utá viśváto-mukho viśváto-bāhur utá viśvátas-pāt | sáṃ bāhúbhyāṃ dhámati sáṃ patátrair dyā́vā-bhū́mī janáyan devá ékaḥ ||
With eyes on every side, with face on every side, with arms on every side and feet on every side—the One God, bringing forth Heaven and Earth, sets the worlds in motion and breathes them together with his arms, and with his wings of power.
वि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् । सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥विश्वतःचक्षुः । उत । विश्वतःमुखः । विश्वतःबाहुः । उत । विश्वतःपात् । सम् । बाहुभ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः ॥viśvataḥ-cakṣuḥ | uta | viśvataḥ-mukhaḥ | viśvataḥ-bāhuḥ | uta | viśvataḥ-pāt | sam | bāhu-bhyām | dhamati | sam | patatraiḥ | dyāvābhūmī iti | janayan | devaḥ | ekaḥ