Sukta 10.81
किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥
kíṃ svíd āsīd adhiṣṭhā́nam ārambháṇaṃ katamát svít kathā́ āsīt | yató bhū́miṃ janáyan viśvá-karmā́ ví dyā́m aurṇon mahinā́ viśvá-cakṣāḥ ||
What indeed was the base, what the support, and in what manner was it? From where, as he brought forth the Earth, did Viśvakarman—seeing everywhere—wrap the Heaven around by his vast power?
किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् । यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥किम् । स्वित् । आसीत् । अधिस्थानम् । आरम्भणम् । कतमत् । स्वित् । कथा । आसीत् । यतः । भूमिम् । जनयन् । विश्वकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वचक्षाः ॥kim | svit | āsīt | adhi-sthānam | ārambhaṇam | katamat | svit | kathā | āsīt | yataḥ | bhūmim | janayan | viśva-karmā | vi | dyām | aurṇot | mahinā | viśva-cakṣāḥ