Sukta 10.81
य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑: । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
yá imā́ víśvā bhúvanāni júhvad ṛ́ṣir hótā ny ásīdat pitā́ naḥ | sá āśíṣā dráviṇam icchámānaḥ prathamác-chad ávarāṃ̐ ā́ viveśa ||
He who offers up all these worlds in the sacrifice—the Seer, the Priest—has sat down within us as our Father. Seeking the plenitude by the power of blessing, he entered first into the lower realms, veiling them, to found the work of creation in the depths.
यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ । सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽच्छत् । अव॑रान् । आ । वि॒वे॒श॒ ॥यः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः । सः । आशिषा । द्रविणम् । इच्छमानः । प्रथमच्छत् । अवरान् । आ । विवेश ॥yaḥ | imā | viśvā | bhuvanāni | juhvat | ṛṣiḥ | hotā | ni | asīdat | pitā | naḥ | saḥ | āśiṣā | draviṇam | icchamānaḥ | prathama-cchat | avarān | ā | viveśa