Sukta 10.80
अग्निर्दाद्द्रविणं वीरपेशा अग्निॠषिं यः सहस्रा सनोति । अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निॠषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥
agnír dā́d dráviṇaṁ vīrá-peśā agnír ṛ́ṣiṁ yáḥ sahásrā sanóti | agnír diví havyám ā́ tatānágne r dhā́māni víbhṛtā puru-trā́ ||
Agni has given wealth of heroic form; Agni (has given) the seer who wins thousands. Agni has stretched the offering in heaven; Agni’s abodes are borne in many places. (Inner sense) The divine Fire grants the fullness of being shaped into heroic power, and it brings forth the seer-consciousness that wins vast plenitudes. It extends the offering into the higher mind (heaven), and its stations are upheld throughout the many levels of the being.
अ॒ग्निः । दा॒त् । द्रवि॑णम् । वी॒रऽपे॑शाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्रा॑ । स॒नोति॑ । अ॒ग्निः । दि॒वि । ह॒व्यम् । आ । त॒ता॒न॒ । अ॒ग्नेः । धामा॑नि । विऽभृ॑ता । पु॒रु॒ऽत्रा ॥अग्निः । दात् । द्रविणम् । वीरपेशाः । अग्निः । ऋषिम् । यः । सहस्रा । सनोति । अग्निः । दिवि । हव्यम् । आ । ततान । अग्नेः । धामानि । विभृता । पुरुत्रा ॥agniḥ | dāt | draviṇam | vīra-peśāḥ | agniḥ | ṛṣim | yaḥ | sahasrā | sanoti | agniḥ | divi | havyam | ā | tatāna | agneḥ | dhāmāni | vi-bhṛtā | puru-trā