Sukta 10.80
अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् । अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥
अ॒ग्निर्ह॒ त्यं जर॑त॒: कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् । अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सम् ॥
agnír ha tyáṁ jarátaḥ kárṇam āvágnír adbhyó nír adahaj jarū́tham | agnír átriṁ gharmé uruṣyad ántar agnír nṛ-médhaṁ pra-jáyā asṛjat sám ||
Agni indeed protected that ear of the old man; Agni burned out Jarūtha from the waters. Agni guarded Atri within the heat; Agni brought Nṛmedha forth together with progeny. (Inner sense) The divine Fire preserves the faculty of hearing in the aging nature; it burns out the entrenched affliction even from the waters of the vital. It protects the seer-consciousness in the ordeal of heat, and releases the human formation into completeness together with the power of future growth.
अ॒ग्निः । ह॒ । त्यम् । जर॑तः । कर्ण॑म् । आ॒व॒ । अ॒ग्निः । अ॒त्ऽभ्यः । निः । अ॒द॒ह॒त् । जरू॑थम् । अ॒ग्निः । अत्रि॑म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒ऽमेध॑म् । प्र॒ऽजया॑ । अ॒सृ॒ज॒त् । सम् ॥अग्निः । ह । त्यम् । जरतः । कर्णम् । आव । अग्निः । अत्भ्यः । निः । अदहत् । जरूथम् । अग्निः । अत्रिम् । घर्मे । उरुष्यत् । अन्तः । अग्निः । नृमेधम् । प्रजया । असृजत् । सम् ॥agniḥ | ha | tyam | jarataḥ | karṇam | āva | agniḥ | at-bhyaḥ | niḥ | adahat | jarūtham | agniḥ | atrim | gharme | uruṣyat | antaḥ | agniḥ | nṛ-medham | pra-jayā | asṛjat | sam