Sukta 10.80
अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश । अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश । अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥
agnér apnásaḥ samíd astu bhadrā́gnír mahī́ rodasī́ ā́ viveśa | agnír ékaṁ codayat samátsv agnír vṛtrā́ṇi dayate purū́ṇi ||
May the kindling of Agni’s work be auspicious; Agni has entered the great two worlds. Agni impels the One in the battles; Agni cuts down many obstructions. (Inner sense) Let the fuel of the divine work be rightly set; the Fire has taken possession of mind and body. It drives the single-pointed power in the inner conflicts and breaks the many formations of resistance that block the truth.
अ॒ग्नेः । अप्न॑सः । स॒म्ऽइत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ । अ॒ग्निः । एक॑म् । चो॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्निः । वृ॒त्राणि॑ । द॒य॒ते॒ । पु॒रूणि॑ ॥अग्नेः । अप्नसः । सम्इत् । अस्तु । भद्रा । अग्निः । मही इति । रोदसी इति । आ । विवेश । अग्निः । एकम् । चोदयत् । समत्सु । अग्निः । वृत्राणि । दयते । पुरूणि ॥agneḥ | apnasaḥ | sam-it | astu | bhadrā | agniḥ | mahī iti | rodasī iti | ā | viveśa | agniḥ | ekam | codayat | samat-su | agniḥ | vṛtrāṇi | dayate | purūṇ i