Sukta 10.80
अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् । अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरंधिम् ॥
अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठाम् । अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिम् ॥
agníḥ saptíṁ vājaṁ-bharáṁ dadāty agnír vīráṁ śrútyaṁ kármaniṣṭhām | agnī́ rodasī́ ví carat sam-añján agnír nā́rīṁ vīrá-kukṣiṁ púraṁdhim ||
Agni gives the team that bears plenitude of force; Agni gives the hero, famed, firm in works. Agni moves through the two worlds, joining them; Agni gives the woman, bearing heroes, the bountiful accomplisher. (Inner sense) The divine Will grants the yoked energies that carry fullness of power; it grants the heroic soul that is heard-of and steadfast in action. It traverses mind and body and harmonizes them; it grants the fruitful power of formation that can hold the heroic seed and accomplish the works.
अ॒ग्निः । सप्ति॑म् । वा॒ज॒म्ऽभ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य॑म् । क॒र्म॒निः॒ऽस्थाम् । अ॒ग्निः । रोद॑सी॒ इति॑ । वि । च॒र॒त् । स॒म्ऽअ॒ञ्जन् । अ॒ग्निः । नारी॑म् । वी॒रऽकु॑क्षिम् । पुर॑म्ऽधिम् ॥अग्निः । सप्तिम् । वाजम्भरम् । ददाति । अग्निः । वीरम् । श्रुत्यम् । कर्मनिःस्थाम् । अग्निः । रोदसी इति । वि । चरत् । सम्अञ्जन् । अग्निः । नारीम् । वीरकुक्षिम् । पुरम्धिम् ॥agniḥ | saptim | vājam-bharam | dadāti | agniḥ | vīram | śrutyam | karmaniḥ-sthām | agniḥ | rodasī iti | vi | carat | sam-añjan | agniḥ | nārīm | vīra-kukṣim | puram-dhim