Sukta 10.79
तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥
तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति । नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ता॒: स प्रचे॑ताः ॥
tád vā́m ṛtáṁ rodasī́ prá bravīmi jā́yamāno mātarā́ gárbho atti | nā́haṁ devásya mártyaś ciketa agnír áṅga ví-cetāḥ sá prá-cetāḥ ||
This truth of you two, O Heaven and Earth, I proclaim: the embryo, being born, consumes the two Mothers. I, a mortal, do not fully know the god; Agni indeed is the discerning one—he is the one with foreknowledge. (Inner sense) The law of the two worlds is this: the growing inner Fire feeds upon and transforms both the material and the mental nature that bore it. The surface mind cannot measure the divine working; Agni is the true discriminating intelligence and the power that knows in advance the right formation of the work.
तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । जाय॑मानः । मा॒तरा॑ । गर्भः॑ । अ॒त्ति॒ । न । अ॒हम् । दे॒वस्य॑ । मर्त्यः॑ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । विऽचे॑ताः । सः । प्रऽचे॑ताः ॥तत् । वाम् । ऋतम् । रोदसी इति । प्र । ब्रवीमि । जायमानः । मातरा । गर्भः । अत्ति । न । अहम् । देवस्य । मर्त्यः । चिकेत । अग्निः । अङ्ग । विचेताः । सः । प्रचेताः ॥tat | vām | ṛtam | rodasī iti | pra | bravīmi | jāyamānaḥ | mātarā | garbhaḥ | atti | na | aham | devasya | martyaḥ | ciketa | agniḥ | aṅga | vi-cetāḥ | saḥ | pra-cetāḥ