Sukta 10.79
प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः । ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुध॑: सर्पदु॒र्वीः । स॒सं न प॒क्वम॑विदच्छु॒चन्तं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ॥
prá mātuḥ prá-taraṁ gúhyam icchán kumāró na vīrúdhaḥ sárpad urvī́ḥ | sasáṁ na pákvam ávidac chucántaṁ ririhvā́ṃsaṁ ripá upásthe ántaḥ ||
Seeking what is more hidden than the Mother, the Youth crawled like a plant over the wide expanses. He found, as it were, the ripe stalk—shining—licking within the enemy’s lap. (Inner sense) The young soul-force, yearning for the deeper secret behind Nature (the Mother), moves through the vast fields of experience; it discovers the mature, radiant Fire/Will already active within the grasp of hostile powers, and brings it to light by persistent inner contact.
प्र । मा॒तुः । प्र॒ऽत॒रम् । गुह्य॑म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः॑ । स॒र्प॒त् । उ॒र्वीः । स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त॑म् । रि॒रि॒ह्वांस॑म् । रि॒पः । उ॒पऽस्थे॑ । अ॒न्तरिति॑ ॥प्र । मातुः । प्रतरम् । गुह्यम् । इच्छन् । कुमारः । न । वीरुधः । सर्पत् । उर्वीः । समम् । न । पक्वम् । अविदत् । शुचन्तम् । रिरिह्वांसम् । रिपः । उपस्थे । अन्तरिति ॥pra | mātuḥ | pra-taram | guhyam | icchan | kumāraḥ | na | vīrudhaḥ | sarpat | urvīḥ | samam | na | pakvam | avidat | śucantam | ririhvāṃsam | ripaḥ | upa-sthe | antariti