Sukta 10.78
उषसां न केतवोऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् । सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥
उ॒षसां॒ न के॒तवो॑ऽध्वर॒श्रिय॑: शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् । सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ॥
uṣásāṃ na ketávo’dhvara-śriyàḥ śubhaṃ-yávo nā́ñji-bhir vy-àśvitan | síndhavo na yayíyo bhrā́ja-dṛṣṭayaḥ parāváto na yójanāni mamire ||
Like the banners of the Dawns, beautifying the sacrifice, they spread out with their splendours; like rivers they flow and travel, their spears flashing to the sight, measuring out far distances as if from the beyond.
उ॒षसा॑म् । न । के॒तवः॑ । अ॒ध्व॒र॒ऽश्रियः॑ । शु॒भ॒म्ऽयवः॑ । न । अ॒ञ्जिऽभिः॑ । वि । अ॒श्वि॒त॒न् । सिन्ध॑वः । न । य॒यियः॑ । भ्राज॑त्ऽऋष्टयः । प॒रा॒ऽवतः॑ । न । योज॑नानि । म॒मि॒रे॒ ॥उषसाम् । न । केतवः । अध्वरश्रियः । शुभम्यवः । न । अञ्जिभिः । वि । अश्वितन् । सिन्धवः । न । ययियः । भ्राजत्ऋष्टयः । परावतः । न । योजनानि । ममिरे ॥uṣasām | na | ketavaḥ | adhvara-śriyaḥ | śubham-yavaḥ | na | añji-bhiḥ | vi | aśvitan | sindhavaḥ | na | yayiyaḥ | bhrājat-ṛṣṭayaḥ | parāvataḥ | na | yojanāni | mamire