Sukta 10.78
सुभागान्नो देवाः कृणुता सुरत्नानस्मान्त्स्तोतॄन्मरुतो वावृधानाः । अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥
सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः । अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ॥
su-bhā́gān no devāḥ kṛṇutā su-rátnān asmā́n stotṝ́n maruto vāvṛdhānā́ḥ | ádhi stótrasya sákhyā́sya gāta sanā́d dhi vo ratna-dhéyāni sánti ||
Make us, O gods, full of good fortune, rich in the true treasures—us who are your singers, O Maruts grown in power. Enter into our hymn and into the bond of comradeship, for from of old your treasure-places are there.
सु॒ऽभा॒गान् । नः॒ । दे॒वाः॒ । कृ॒णु॒त॒ । सु॒ऽरत्ना॑न् । अ॒स्मान् । स्तो॒तॄन् । म॒रु॒तः॒ । व॒वृ॒धा॒नाः । अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒ । स॒नात् । हि । वः॒ । र॒त्न॒ऽधेया॑नि । सन्ति॑ ॥सुभागान् । नः । देवाः । कृणुत । सुरत्नान् । अस्मान् । स्तोतॄन् । मरुतः । ववृधानाः । अधि । स्तोत्रस्य । सख्यस्य । गात । सनात् । हि । वः । रत्नधेयानि । सन्ति ॥su-bhāgān | naḥ | devāḥ | kṛṇuta | su-ratnān | asmān | stotṝn | marutaḥ | vavṛdhānāḥ | adhi | stotrasya | sakhyasya | gāta | sanāt | hi | vaḥ | ratna-dheyāni | santi