Sukta 10.78
ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा । शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्नुत त्विषा ॥
ग्रावा॑णो॒ न सू॒रय॒: सिन्धु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ । शि॒शूला॒ न क्री॒ळय॑: सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ॥
grā́vāṇo na sū́rayaḥ síndhu-mātara ādardirā́so ádrayo na viśváhā | śiśū́lā na krīḷáyaḥ su-mā́taro mahā-grā́mo na yā́mann uta tvíṣā ||
Like pressing-stones they are the strong ones, born of the rivers, ever thundering like rocks; like playful children of a good mother, like a great host in its march they move, and also in their blaze of force.
ग्रावा॑णः । न । सू॒रयः॑ । सिन्धु॑ऽमातरः । आ॒ऽद॒र्दि॒रासः॑ । अद्र॑यः । न । वि॒श्वहा॑ । शि॒शूलाः॑ । न । क्री॒ळयः॑ । सु॒ऽमा॒तरः॑ । म॒हा॒ऽग्रा॒मः । न । याम॑न् । उ॒त । त्वि॒षा ॥ग्रावाणः । न । सूरयः । सिन्धुमातरः । आदर्दिरासः । अद्रयः । न । विश्वहा । शिशूलाः । न । क्रीळयः । सुमातरः । महाग्रामः । न । यामन् । उत । त्विषा ॥grāvāṇaḥ | na | sūrayaḥ | sindhu-mātaraḥ | ādardirāsaḥ | adrayaḥ | na | viśvahā | śiśūlāḥ | na | krīḷayaḥ | su-mātaraḥ | mahāgrāmaḥ | na | yāman | uta | tv iṣā