Sukta 10.78
अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः । आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥
अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्य॑: सु॒दान॑वः । आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अङ्गि॑रसो॒ न साम॑भिः ॥
aśvā́so na yé jyéṣṭhāsa āśávo didhiṣávo na rathyàḥ su-dā́naváḥ | ā́po na nimnáir udábhír jigatnávो viśvá-rūpā aṅgíraso na sā́ma-bhiḥ ||
Like foremost horses they are swift; like chariot-fighters they desire to win and they give richly. Like waters by their slopes and streams they rush onward; manifold in form, like the Angirases with their chants they bring the harmonies of light.
अश्वा॑सः । न । ये । ज्येष्ठा॑सः । आ॒शवः॑ । दि॒धि॒षवः॑ । न । र॒थ्यः॑ । सु॒ऽदान॑वः । आपः॑ । न । नि॒म्नैः । उ॒दऽभिः॑ । जि॒ग॒त्नवः॑ । वि॒श्वऽरू॑पाः । अङ्गि॑रसः । न । साम॑ऽभिः ॥अश्वासः । न । ये । ज्येष्ठासः । आशवः । दिधिषवः । न । रथ्यः । सुदानवः । आपः । न । निम्नैः । उदभिः । जिगत्नवः । विश्वरूपाः । अङ्गिरसः । न । सामभिः ॥aśvāsaḥ | na | ye | jyeṣṭhāsaḥ | āśavaḥ | didhiṣavaḥ | na | rathyaḥ | su-dānavaḥ | āpaḥ | na | nimnaiḥ | uda-bhiḥ | jigatnavaḥ | viśva-rūpāḥ | aṅgirasaḥ | na | sāma-bhiḥ