Sukta 10.78
रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥
रथा॑नां॒ न ये॒३॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः । व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभ॑: ॥
rathā́nāṃ na yé’rā́ḥ sa-nā́bhayo jigīvā́ṃso na śū́rā abhi-dyávaḥ | vareyávo na maryā́ ghṛtá-pruṣo’bhi-svartā́ro arkaṃ́ na su-stúbhaḥ ||
Like the spokes of chariots with firm naves, like conquering heroes they press forward; like chosen youths they drip with the clarified light, surging upward, and like a hymn well-stated they are the strong utterance.
रथा॑नाम् । न । ये । अ॒राः । सऽना॑भयः । जि॒गी॒वांसः॑ । न । शूराः॑ । अ॒भिऽद्य॑वः । व॒रे॒ऽयवः॑ । न । मर्याः॑ । घृ॒त॒ऽप्रुषः॑ । अ॒भि॒ऽस्व॒र्तारः॑ । अ॒र्कम् । न । सु॒ऽस्तुभः॑ ॥रथानाम् । न । ये । अराः । सनाभयः । जिगीवांसः । न । शूराः । अभिद्यवः । वरेयवः । न । मर्याः । घृतप्रुषः । अभिस्वर्तारः । अर्कम् । न । सुस्तुभः ॥rathānām | na | ye | arāḥ | sa-nābhayaḥ | jigīvāṃsaḥ | na | śūrāḥ | abhi-dyavaḥ | vare--yavaḥ | na | maryāḥ | ghṛta-pruṣaḥ | abhi-svartāraḥ | arkam | na | su-stubhaḥ