Sukta 10.78
वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः । वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥
वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किण॑: । वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः पितॄ॒णां न शंसा॑: सुरा॒तय॑: ॥
vātā́so na yé dhúnayo jigatnávो’gnīnā́ṃ na jihvā́ vi-rokíṇaḥ | vármaṇvanto na yodhā́ḥ śimī́vantaḥ pitṝṇā́ṃ na śaṃsā́ḥ su-rā́tayaḥ ||
Like winds they are the driving blasts that rush onward; like the tongues of fires they shine forth. Like armoured warriors they advance with power; like the praises of the Fathers they are words of good giving.
वाता॑सः । न । ये । धुन॑यः । जि॒ग॒त्नवः॑ । अ॒ग्नी॒नाम् । न । जि॒ह्वाः । वि॒ऽरो॒किणः॑ । वर्म॑ण्ऽवन्तः॑ । न । यो॒धाः । शिमी॑ऽवन्तः । पि॒तॄ॒णाम् । न । शंसाः॑ । सु॒ऽरा॒तयः॑ ॥वातासः । न । ये । धुनयः । जिगत्नवः । अग्नीनाम् । न । जिह्वाः । विरोकिणः । वर्मण्वन्तः । न । योधाः । शिमीवन्तः । पितॄणाम् । न । शंसाः । सुरातयः ॥vātāsaḥ | na | ye | dhunayaḥ | jigatnavaḥ | agnīnām | na | jihvāḥ | vi-rokiṇaḥ | varmaṇ-vantaḥ | na | yodhāḥ | śimī-vantaḥ | pitṝṇām | na | śaṃsāḥ | su-rātayaḥ