Sukta 10.78
अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः । प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥
अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युज॑: स॒द्यऊ॑तयः । प्र॒ज्ञा॒तारो॒ न ज्येष्ठा॑: सुनी॒तय॑: सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥
agnír na yé bhrā́jasā rukmá-vakṣaso vātā́so na sva-yújaḥ sadyá-ūtayaḥ | pra-jñātā́ro na jyéṣṭhāḥ su-nītáyaḥ su-śármāṇo na sómā ṛtáṃ yaté ||
Like Agni they blaze with splendour and bear the golden breast; like winds they are self-yoked, swift to help at once. Like elder knowers they lead by a happy guidance; like Soma they are a glad protection, moving in the path of ṛta.
अ॒ग्निः । न । ये । भ्राज॑सा । रु॒क्मऽव॑क्षसः । वाता॑सः । न । स्व॒ऽयुजः॑ । स॒द्यःऽऊ॑तयः । प्र॒ऽज्ञा॒तारः॑ । न । ज्येष्ठाः॑ । सु॒ऽनी॒तयः॑ । सु॒ऽशर्मा॑णः । न । सोमाः॑ । ऋ॒तम् । य॒ते ॥अग्निः । न । ये । भ्राजसा । रुक्मवक्षसः । वातासः । न । स्वयुजः । सद्यःऊतयः । प्रज्ञातारः । न । ज्येष्ठाः । सुनीतयः । सुशर्माणः । न । सोमाः । ऋतम् । यते ॥agniḥ | na | ye | bhrājasā | rukma-vakṣasaḥ | vātāsaḥ | na | sva-yujaḥ | sadyaḥ-ūtayaḥ | pra-jñātāraḥ | na | jyeṣṭhāḥ | su-nītayaḥ | su-śarmāṇaḥ | na | somāḥ | ṛtam | yate