Sukta 10.78
विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः । राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥
विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः । राजा॑नो॒ न चि॒त्राः सु॑सं॒दृश॑: क्षिती॒नां न मर्या॑ अरे॒पस॑: ॥
viprā́so na mánma-bhiḥ svādhyò devā́vyo na yajñáiḥ svápnasaḥ | rājā́no na citrā́ḥ su-sandṛ́śaḥ kṣitīnā́ṃ na maryā́ arepásaḥ ||
Like seers by their inspired formulations, like those who win the gods by sacrifice, they are perfect in their right workings; like kings they are splendid and fair to behold, like noble men among the peoples they are without blemish.
विप्रा॑सः । न । मन्म॑ऽभिः । सु॒ऽआ॒ध्यः॑ । दे॒व॒ऽअ॒व्यः॑ । न । य॒ज्ञैः । सु॒ऽअप्न॑सः । राजा॑नः । न । चि॒त्राः । सु॒ऽस॒न्दृशः॑ । क्षि॒ती॒नाम् । न । मर्याः॑ । अ॒रे॒पसः॑ ॥विप्रासः । न । मन्मभिः । सुआध्यः । देवअव्यः । न । यज्ञैः । सुअप्नसः । राजानः । न । चित्राः । सुसन्दृशः । क्षितीनाम् । न । मर्याः । अरेपसः ॥viprāsaḥ | na | manma-bhiḥ | su-ādhyaḥ | deva-avyaḥ | na | yajñaiḥ | su-apnasaḥ | rājānaḥ | na | citrāḥ | su-sandṛśaḥ | kṣitīnām | na | maryāḥ | arepasaḥ