Sukta 10.77
य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् । रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥
yá udṛ́ci yajñé adhvareṣṭhā́ marúd-bhyo ná mā́nuṣo dadā́śat | revát sá váyo dadhate su-vī́raṃ sá devā́nām ápi go-pīthé astu ||
Whoever, standing upright in the sacrifice, in the foremost rite, gives to the Maruts as a true human—he gains the rich plenitude and the good hero-force; may he be in the protecting shelter of the gods.
यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् । रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥यः । उत्ऋचि । यज्ञे । अध्वरेस्थाः । मरुत्भ्यः । न । मानुषः । ददाशत् । रेवत् । सः । वयः । दधते । सुवीरम् । सः । देवानाम् । अपि । गोपीथे । अस्तु ॥yaḥ | ut-ṛci | yajñe | adhvare--sthāḥ | marut-bhyaḥ | na | mānuṣaḥ | dadāśat | revat | saḥ | vayaḥ | dadhate | su-vīram | saḥ | devānām | api | go--pīthe | astu