Sukta 10.77
प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः । विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्व॑: । वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योत ॥
prá yád váhadhve marutaḥ parākā́d yūyáṃ maháḥ saṃ-váraṇasya vásvaḥ | vidā́nāso vasavo rā́dhyasy ārā́c cid dvéṣaḥ sanutár yuyota ||
When you bear forward from afar, O Maruts, you are the riches of the great encompassing. Knowing the right gain, O Vasus, drive away even from a distance the hatred, thrust it away beyond our path.
प्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ । वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥प्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्वरणस्य । वस्वः । विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥pra | yat | vahadhve | marutaḥ | parākāt | yūyam | mahaḥ | sam-varaṇasya | vasvaḥ | vidānāsaḥ | vasavaḥ | rādhyasya | ārāt | cit | dveṣaḥ | sanutaḥ | yuyota