Sukta 10.77
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः । ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥
té hí yajñéṣu yajñíyāsa ū́mā ādityéna nā́mnā śáṃ-bhaviṣṭhāḥ | té no’vantu rathá-tūr manīṣā́m maháś ca yā́mann adhvaré cakānā́ḥ ||
For they are truly the most worthy in the workings of sacrifice—these powers of fervour, auspicious in the name of Āditya (the solar Truth). May they protect for us the inspired thought that speeds like a chariot, and the vast greatness, rejoicing in the movement and in the flawless offering.
ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः । ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्भविष्ठाः । ते । नः । अवन्तु । रथतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥te | hi | yajñeṣu | yajñiyāsaḥ | ūmāḥ | ādityena | nāmnā | śam-bhaviṣṭhāḥ | te | naḥ | avantu | ratha-tūḥ | manīṣām | mahaḥ | ca | yāman | adhvare | cakānāḥ