Sukta 10.77
यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु । श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु । श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुष॑: ॥
yūyáṃ dhū́rṣu pra-yújo ná raśmíbhir jyótiṣmanto ná bhā́sā vyùṣṭiṣu | śyenā́so ná svayáśaso riśā́dasaḥ pravā́so ná pra-sitāsaḥ pari-prúṣaḥ ||
You, yoked in the impulsions, are like rays—luminous in the dawns. Like falcons of self-glory, devourers of harm, like far-ranging ones released on their path, you scatter your showers all around.
यू॒यम् । धूः॒ऽसु । प्र॒ऽयुजः॑ । न । र॒श्मिऽभिः॑ । ज्योति॑ष्मन्तः । न । भा॒सा । विऽउ॑ष्टिषु । श्ये॒नासः॑ । न । स्वऽय॑शसः । रि॒शाद॑सः । प्र॒वासः॑ । न । प्रऽसि॑तासः । प॒रि॒ऽप्रुषः॑ ॥यूयम् । धूःसु । प्रयुजः । न । रश्मिभिः । ज्योतिष्मन्तः । न । भासा । विउष्टिषु । श्येनासः । न । स्वयशसः । रिशादसः । प्रवासः । न । प्रसितासः । परिप्रुषः ॥yūyam | dhūḥ-su | pra-yujaḥ | na | raśmi-bhiḥ | jyotiṣmantaḥ | na | bhāsā | vi-uṣṭiṣu | śyenāsaḥ | na | sva-yaśasaḥ | riśādasaḥ | pravāsaḥ | na | pra-sitāsaḥ | pari-pruṣaḥ