Sukta 10.77
युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति । विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥
यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ । वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु व॒: प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥
yuṣmā́kaṃ budhné apā́ṃ ná yā́mani vithuryáti ná mahī́ śratharyáti | viśvá-psur yajñó arvā́g ayáṃ sú vaḥ práyasvanto ná satrā́ca ā́ gata ||
In your depth, as in the course of the waters, the great earth does not totter, does not loosen. This sacrifice, moving with all energies, turns hither toward you; come then, like eager strivers who move together, arrive here.
यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ । वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति । विश्वप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥yuṣmākam | budhne | apām | na | yāmani | vithuryati | na | mahī | śratharyati | viśva-psuḥ | yajñaḥ | arvāk | ayam | su | vaḥ | prayasvantaḥ | na | satrācaḥ | ā | gata