Sukta 10.77
प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः । पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्य॑: । पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥
prá ye diváḥ pṛthivyā́ ná barháṇā tmánā riricré abhrā́n ná sū́ryaḥ | pā́jasvanto ná vīrā́ḥ panasyávo riśā́daso ná maryā́ abhí-dyavaḥ ||
They surge forth from heaven and earth like a swelling; by their own being they expand, like the sun from the clouds. Radiant like heroes, eager for the prize of perfection, devourers of resistance like young warriors, they press forward toward the light.
प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ । पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥प्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः । पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिद्यवः ॥pra | ye | divaḥ | pṛthivyāḥ | na | barhaṇā | tmanā | riricre | abhrāt | na | sūryaḥ | pājasvantaḥ | na | vīrāḥ | panasyavaḥ | riśādasaḥ | na | maryāḥ | abhi-dyavaḥ