Sukta 10.77
श्रिये मर्यासो अञ्जीँरकृण्वत सुमारुतं न पूर्वीरति क्षपः । दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥
श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षप॑: । दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥
śríye maryā́so añjī́ṃr akṛṇvata su-mā́rutaṃ na pūrvī́r áti kṣápaḥ | divás-putrāsa etā́ na yetir ādityā́sās te akrā́ na vāvṛdhuḥ ||
For beauty and increase the young heroes fashioned their shining adornments; like well-maruted powers they pass beyond the earlier nights. Sons of Heaven, they move on this path; like the Adityas, firm and unbroken, they have grown in their strength.
श्रि॒ये । मर्या॑सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒ऽमारु॑तम् । न । पू॒र्वीः । अति॑ । क्षपः॑ । दि॒वः । पु॒त्रासः॑ । एताः॑ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः॑ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥श्रिये । मर्यासः । अञ्जीन् । अकृण्वत । सुमारुतम् । न । पूर्वीः । अति । क्षपः । दिवः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः ॥śriye | maryāsaḥ | añjīn | akṛṇvata | su-mārutam | na | pūrvīḥ | ati | kṣapaḥ | di vaḥ | putrāsaḥ | etāḥ | na | yetire | ādityāsaḥ | te | akrāḥ | na | vavṛdhuḥ