Sukta 10.77
अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः । सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुष॑: । सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥
abhrá-pruṣo na vācā́ pruṣā vásu haviṣmánto na yajñā́ vi-jā́nuṣaḥ | su-mā́rutaṃ na brahmā́ṇam arhase gaṇám astoṣy eṣāṃ na śóbhase ||
Like cloud-sprays, with the Word you sprinkle the wealth; like possessors of the offering, like sacrifices that know their way, you move. You are worthy like a well-maruted (well-impelled) sacred utterance; I praise your host—may you shine forth with their brilliance.
अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ । सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥अभ्रप्रुषः । न । वाचा । प्रुष । वसु । हविष्मन्तः । न । यज्ञाः । विजानुषः । सुमारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे ॥abhra-pruṣaḥ | na | vācā | pruṣa | vasu | haviṣmantaḥ | na | yajñāḥ | vi-jānuṣaḥ | su-mārutam | na | brahmāṇam | arhase | gaṇam | astoṣi | eṣām | na | śobhase