Sukta 10.75
तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥
तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या । त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥
tṛṣṭā́mayā prathamáṃ yātáve sajū́ḥ susártvā rasáyā śvetyā́ tyā́ | tváṃ síndho kúbhayā gomátīṃ krúmuṃ mehatnvā́ saráthaṃ yā́bhir ī́yase ||
O Sindhu, first you set forth in companionship with the well-moving Tṛṣṭāmā, with Rasā, with bright Śvetī. With Kubhā you journey; with Gomati, Krumu, and Mehatnu you move as if in one chariot: so may the many currents in us become a single harmonious motion toward the victory of the soul.
तृ॒ष्टऽअ॑मया । प्र॒थ॒मम् । यात॑वे । स॒ऽजूः । सु॒ऽसर्त्वा॑ । र॒सया॑ । श्वे॒त्या । त्या । त्वम् । सि॒न्धो॒ इति॑ । कुभ॑या । गो॒ऽम॒तीम् । क्रुमु॑म् । मे॒ह॒त्न्वा । स॒ऽरथ॑म् । याभिः॑ । ईय॑से ॥तृष्टअमया । प्रथमम् । यातवे । सजूः । सुसर्त्वा । रसया । श्वेत्या । त्या । त्वम् । सिन्धो इति । कुभया । गोमतीम् । क्रुमुम् । मेहत्न्वा । सरथम् । याभिः । ईयसे ॥tṛṣṭa-amayā | prathamam | yātave | sa-jūḥ | su-sartvā | rasayā | śvetyā | tyā | tvam | sindho iti | kubhayā | go--matīm | krumum | mehatnvā | sa-ratham | yābhiḥ | īyase