Sukta 10.75
अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः । राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि ॥
अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑: । राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥
abhí tvā síndho śíśum ín na mā́taro vāśrā́ arṣanti páyasā iva dhenávaḥ | rājéva yúdhvā nayasi tvám ít sícaú yád āsā́m ágraṃ prá-vatām inákṣasi ||
Toward thee, O Sindhu, as mothers to a child, the lowing ones stream—like cows with their milk. Like a king with his warriors thou leadest the mingling waters, when thou reachest the foremost of these slopes—taking the front in their descent.
अ॒भि । त्वा॒ । सिन्धो॒ इति॑ । शिशु॑म् । इत् । न । मा॒तरः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ । राजा॑ऽइव । युध्वा॑ । न॒य॒सि॒ । त्वम् । इत् । सिचौ॑ । यत् । आ॒सा॒म् । अग्र॑म् । प्र॒ऽवता॑म् । इन॑क्षसि ॥अभि । त्वा । सिन्धो इति । शिशुम् । इत् । न । मातरः । वाश्राः । अर्षन्ति । पयसाइव । धेनवः । राजाइव । युध्वा । नयसि । त्वम् । इत् । सिचौ । यत् । आसाम् । अग्रम् । प्रवताम् । इनक्षसि ॥abhi | tvā | sindho iti | śiśum | it | na | mātaraḥ | vāśrāḥ | arṣanti | payasāiva | dhenavaḥ | rājāiva | yudhvā | nayasi | tvam | it | sicau | yat | āsām | agram | pra-vatām | inakṣasi