Sukta 10.75
दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना । अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् ॥
दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ । अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टय॒: सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥
diví svanáḥ yatate bhū́myo úpary anantáṃ śúṣmam úd iyarti bhā́nunā | abhrā́d iva prá stanayanti vṛ́ṣṭayaḥ síndhur yád éti vṛṣabhó na rórūvat ||
In heaven the sound strains, and over the earth it rises; with its light it lifts up an endless force. Like from a cloud the rains thunder forth, when Sindhu moves—bellowing like a bull, the great power advancing.
दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ । अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥दिवि । स्वनः । यतते । भूम्या । उपरि । अनन्तम् । शुष्मम् । उत् । इयर्ति । भानुना । अभ्रात्इव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत् ॥divi | svanaḥ | yatate | bhūmyā | upari | anantam | śuṣmam | ut | iyarti | bhānunā | abhrāt-iva | pra | stanayanti | vṛṣṭayaḥ | sindhuḥ | yat | eti | vṛṣabhaḥ | na | roruvat