Sukta 10.75
प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजाँ अभ्यद्रवस्त्वम् । भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥
प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वम् । भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥
prá te ’radad váruṇo yā́tave páthaḥ síndho yád vājā́ṃ abhy-ádravas tvám | bhū́myā ádhi prá-vatā yā́si sā́nunā yád eṣā́m ágraṃ jágatām irajyási ||
Varuṇa cleared out for thee the paths to go, O Sindhu, when thou didst rush toward the plenitudes of force. From the Earth thou goest by the slopes and the ridges, when thou movest at the head of these moving worlds—leading their advance.
प्र । ते॒ । अ॒र॒द॒त् । वरु॑णः । यात॑वे । प॒थः । सिन्धो॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अद्र॑वः । त्वम् । भूम्याः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । सानु॑ना । यत् । ए॒षा॒म् । अग्र॑म् । जग॑ताम् । इ॒र॒ज्यसि॑ ॥प्र । ते । अरदत् । वरुणः । यातवे । पथः । सिन्धो इति । यत् । वाजान् । अभि । अद्रवः । त्वम् । भूम्याः । अधि । प्रवता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि ॥pra | te | aradat | varuṇaḥ | yātave | pathaḥ | sindho iti | yat | vājān | abhi | adravaḥ | tvam | bhūmyāḥ | adhi | pra-vatā | yāsi | sānunā | yat | eṣām | agram | jagatām | irajyasi