Sukta 10.75
प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः । प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥
prá su va ā́po mahimā́nam ut-tamáṃ kā́rur vocāti sádane vivásvataḥ | prá sapta-sapta tredhā́ hí cakramuḥ prá sṛ́tvarīṇām áti síndhur ójasā ||
Forth I proclaim, O Waters, your supreme greatness, in the home of Vivasvat. Seven and seven have moved in a triple order; and Sindhu, by his force, surpasses the swift-flowing streams—an overmastering current of conscious power.
प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥प्र । सु । वः । आपः । महिमानम् । उत्तमम् । कारुः । वोचाति । सदने । विवस्वतः । प्र । सप्तसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥pra | su | vaḥ | āpaḥ | mahimānam | ut-tamam | kāruḥ | vocāti | sadane | vivasvataḥ | pra | sapta-sapta | tredhā | hi | cakramuḥ | pra | sṛtvarīṇām | ati | sindhuḥ | ojasā