Sukta 10.71
इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥
इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः । त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥
imé yé nā́rvāṅ ná paráś caranti ná brāhmaṇā́so ná sutékarāsaḥ | tá eté vā́cam abhipádya pā́payā sirī́s tántraṃ tanvate áprjajñayaḥ ||
These who move neither forward nor beyond—neither true bearers of brahman nor makers of the pressed Soma—approach the Word with an evil way; unknowing, they stretch out a threadbare warp, a barren weaving.
इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः । ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥इमे । ये । न । अर्वाक् । न । परः । चरन्ति । न । ब्राह्मणासः । न । सुतेकरासः । ते । एते । वाचम् । अभिपद्य । पापया । सिरीः । तन्त्रम् । तन्वते । अप्रजज्ञयः ॥ime | ye | na | arvāk | na | paraḥ | caranti | na | brāhmaṇāsaḥ | na | sute--karāsaḥ | te | ete | vācam | abhi-padya | pāpayā | sirīḥ | tantram | tanvate | apra-jajñayaḥ