Sukta 10.71
हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः । अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः । अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ॥
hṛdā́ taṣṭéṣu mánaso javéṣu yád brāhmaṇā́ḥ samyájante sakhā́yaḥ | átrāha tváṃ ví jahur vedyā́bhir óhabrahmāṇo ví caranty u tve ||
When, in the mind’s swift movements shaped by the heart, the brahmins—companions—offer together, then here indeed you are left behind by those who know; the masters of carrying the sacred utterance move freely in you.
हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः । अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊँ॒ इति॑ । त्वे॒ ॥हृदा । तष्टेषु । मनसः । जवेषु । यत् । ब्राह्मणाः । सम्यजन्ते । सखायः । अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहब्रह्माणः । वि । चरन्ति । ऊँ इति । त्वे ॥hṛdā | taṣṭeṣu | manasaḥ | javeṣu | yat | brāhmaṇāḥ | sam-yajante | sakhāyaḥ | atra | aha | tvam | vi | jahuḥ | vedyābhiḥ | oha-brahmāṇaḥ | vi | caranti | oṃ iti | tve